Surprise Me!

सिद्धेश्वर अष्टकम् | Siddheshwar Ashtakam | Siddheshwar Ashtakam With Lyrics #siddheshwar

2025-02-17 13 Dailymotion

सिद्धेश्वर अष्टकम् | Siddheshwar Ashtakam | Siddheshwar Ashtakam With Lyrics #siddheshwar @Mere Krishna

#siddheshwar #सिद्धेश्वर #शिव #महादेव #shiv #shiva #mahadev

सिद्धेश्वराष्टकम्

महातीर्थराजस्य तीरे विभान्तं महाभूतिरूपं महात्मैकवेद्यम् । महासिद्धिपूरप्रदानैकदक्षं भजामैव सिद्धेश्वरं चित्त शम्भुम् ॥१॥

मनोजस्त्वदक्ष्यग्निभस्मावशेषः मदान्धश्च दक्षो गतश्शोच्यभावम् । मनोजातदाक्ष्याग्नितान्तो मदान्धः भजे निर्मदत्वाय सिद्धेश्वरं त्वाम् ॥२॥

इयं चापि गङ्गा निबद्धा कपर्दे मदाढ्या यतस्सा कणक्षीरकल्पम् । विसृष्टा जगत्पापनाशाय येन स्वयं चित्त सिद्धेश्वरं चिन्तयैनम् ॥ ३॥

न तेऽन्तो न चादिर्हरिस्सोऽपि धाता वराहीभवन्नूर्ध्वहंसीभवंश्च । दधाते हि साक्ष्यं भजे भान्तमेव महालिङ्गरूपेण सिद्धेश्वरं त्वाम् ॥४॥

शिवोऽयं प्रदेशो महान् मध्यदेशः शिवा जाह्नवी नित्यसिद्धप्रवाहा । शिवस्त्वं शिवं नित्यसिद्धं दधानः शिवो नः सदा देव सिद्धेश्वर स्याः ॥५॥

पदाब्जे त्वदीये स्वकीयाक्षिपद्मं पुरा भूषणत्वेन नारायणोऽदात् । इतीदं पुरावृत्तमद्यात्र सत्यं बदर्यो हरिस्साधु सिद्धेश्वरादात् ॥६॥

कपर्दात् त्वदीयाद्विसृष्टापि गङ्गा पुनस्सेवितुं त्वामहो बद्धवाञ्छा । सकाशे त्वदीयेऽतिभारप्रवाहा निजाम्भोऽभिषेकाय सिद्धेश्वरागात् ॥७॥

न मत्तोऽस्म्यहं चेन्न मत्तोऽसि भिन्नः नमत्तोषितस्त्वं नमत्तोषदाता । न मत्तोऽसि भिन्नस्त्वमित्यैक्य तोषं नमद्भ्यः प्रदेहीह सिद्धेश्वर त्वम् ॥८॥

इति प्रयागसिद्धेशभक्ति भृज्जनता हृदि ।
श्लोकाष्टकमिदं पुण्यं नित्यं वर्धयतां शुभम् ॥९॥

इति महापेरियवा श्री चन्द्रशेखरेन्द्रसरस्वतीविरचितं सिद्धेश्वराष्टकं सम्पूर्णम् ।

Buy Now on CodeCanyon